42-ാമത് സംസ്ഥാന-സമ്മേളനം



आलुव> संस्कृतभाषा इतोऽपि जनकीया करणीया इति केरलराज्यस्य शिक्षामन्त्री प्रो. सि. रवीन्द्रनाथः अवदत्। राष्ट्रस्य व्यक्तेः च प्रगतिम् उद्दिश्य सांस्कृतिकरीत्या भाषायाः उपयोग: करणीयः। युक्तिचिन्ता भाषाध्ययनेन साध्या भवेत् इत्यपि तेन उद्‌बोधितम्।'केरल संस्कृताध्यापक फेडरेषन'स्य शैक्षिकसङ्गोष्ठेः उद्‌घाटनं कृत्वा भाषमाणः आसीत् सः।

कार्यक्रमे सम्प्रतिवार्ता इति छात्राणाम् अन्तर्जालवार्तावाहिन्या: छाात्रवार्तावतारकेषु प्रथमश्रेणीम् सम्प्राप्तेभ्यः प्रमाणपत्रवितरणमपि कृतम्। राष्ट्रपतिपुरस्कारेण समादृतः महामहोपाध्यायः डा. गङ्गाधरन् नायर् महोदयः मन्त्रिणा समादृतः। एरणाकुलं जनपदे विद्यावारिधि- बिरुदमवाप्ताः १५ संस्कृताध्यापकाः सम्मानिताः च। नियमसभा सामाजिकः अन्वर् सादत्तः अध्यक्षः आसीत्। श्री शङ्कराचार्यविश्वविद्यलयस्य कुलपतिः डा धर्मराजः अटाट् मुख्यभाषणं कृतवान्I संस्कृताध्यापक सङ्घटनस्य अध्यक्षः बिजु काविल् , पि रतिः, सि. पिसनलचन्द्र:, पि पद्मनाभः, रमेशन् नम्बीशः, जि. चन्द्रशेखरप्रभुः, पि. जि अजित् प्रसादः, श्रीमूलनगरं मोहनः, डा. नित्यानन्द भट्टः, डा. एम्. वि नटेशः च भाषणं कृतवन्तः।